प्रयागराज। कर्म एवार्चनम् इति सूत्रं जीवने वहन् प्रगल्भः युवा आईएएस (IAS) अधिकारी प्रेमरंजन सिंहः प्रकृत्या सरलः अपि। प्रयागराज जनपदे मुख्य विकास अधिकारि पदमलंकर्षाणः श्री सिंहः जनपद-योजनाः विस्तारयितुं ताश्च भूतले प्रयोजयितुम् सततं प्रयतते। जनानां समस्याः श्रोतुं ताश्च
निस्तारयितुं सततं तत्परः श्री सिंहः कथयति यत् सः सदैव प्रतिष्ठितपदस्य उत्तरदायित्वं चित्ते धारयति।जनहितार्थ सः सर्वेषां सदैव सुलभो विद्यते। अनेक विधकार्यव्यासक्तिषु सतीषु अपि जनहितकार्यार्थम् सः पर्याप्त कालावकाशं वहित।सर्वकारेण प्रवर्तितानां योजनानां लाभः